पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४ सर्गः]
59
वृत्तं त्वकथयं ताभ्यामन्धाभ्यां सुतमारणत्


अभितः संस्तभ्य -भीताकारतामाच्छाद्य अभीत इवाचचक्षे-आख्यातवानस्मि । अत्रापि भट्टारका बहु वदन्ति ; न तदस्मन्मनः श्रद्दधते ॥ १२ ॥

क्षत्रियोऽहं दशरथः नाहं पुत्रो महात्मनः
सज्जनावमतं दुःखं इदं प्राप्तं स्वकर्मजम् ॥ १३ ॥

 महात्मनस्तव पुत्रो नाहमिति योजना । सज्जनावमतं--साधुविगर्हितं मया दुःखं प्राप्तम् ॥ १३ ॥

भगवन् ! चापहस्तोऽहं सरयूतीरमागतः ।
जिघांसुः श्वापदं कञ्चित् निपाने वाऽऽगतं गजम् ॥ १४ ॥

 किं तत् ? इत्यतः-—भगवन्नित्यादि । घोरं श्वापदं शार्दूलादिकं, निपाने- अवतारे गजं वा जिघांसुः ॥ १४ ॥

तत्र श्रुतो मया शब्दः जले कुम्भस्य पूर्यतः ।
[१]द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतो मया ॥ १५ ॥

 अयमिति । श्रुतशब्दहेतुपदार्थ इत्यर्थः ॥ १५ ॥

गत्वा नद्यास्ततस्तीरं अपश्यमिषुणा हृदि ।
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ १६ ॥

 गतप्राणं-गतकल्पप्राणम् ॥ १६ ॥

भगवन् ! शब्दमालक्ष्य मया गजजिघांसुना ।
विसृष्टोऽम्भसि नाराचः ततस्ते निहतः सुतः ॥ १७ ॥


  1. अयं - शब्दहेतुः पदार्थः द्विप इति मत्वा अयं तव सुत: मया अमिहत:-गो.