कैकेय्याश्चित्तं चलितमित्युच्यते । मन्थरेत्यादि । अभ्यसूय-कण्ड्वादे-रसूयतेर्ल्यप्, यगभाव आर्षः, असूयां कृत्वेत्यर्थः । एनां प्रतीति शेषः । आङः 'सुपांसुलुक्' इत्यादिना पूर्वसवर्णाश्रयणे सति अभ्यसूयेति पाङ्कोऽर्थः। कोपदुःखेति । हितं न शृणोतीति कोपः, अहितमस्या जायत इति दुःखम् ॥ १ ॥
अस्थाने-अनुचितकाले । बालिशे-अज्ञे ॥ २ ॥
मनसा [३]प्रहसामि त्वां देवि ! दुःखार्दिता सती ।
यच्छोचितव्ये हृष्टाऽसि प्राप्य त्वं व्यसनं महत् ॥ ३ ॥
शोचितव्ये हृष्टाऽसीति यत् अतो मनसा त्वां प्रहसामि, उन्मत्तदर्शनेनेव स्वदशापरिहासास्पदभूतासीत्यर्थः ॥ ३ ॥
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।
अरेः सपत्नीपुत्रस्य [४]वृद्धिं मृत्योरिवागताम् ॥ ४ ॥
तदेवाह-शोचामीत्यादि । ते दुर्मतित्वं शोचामि । का हि प्राज्ञा-बुद्धिमती मृत्योर्वृद्धिमिवागतां अरेः सपत्नीपुत्रस्य वृद्धिं प्रहर्षयेत्-उपलालयेत् ॥ ४ ॥
भरतादेव रामस्य [५]राज्यसाधारणाद्भयम् ।
तद्विचिन्त्य विषण्णाऽस्मि भयं भीताद्धि जायते ॥ ५ ॥