नवमः सर्गः
[रामप्रवासनाध्यवसायः]
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना ।
दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ॥ १ ॥
एवं तृतीयपर्याये-ज्यैष्ठ्यक्रमप्राप्तियुक्तेः भरतराज्यभ्रंशहेतोः उपदेशात्, वैरनिर्यातनरूपस्य स्वदास्यप्राप्तिहेतोश्चोपदेशात्, जन्मप्रभृति मन्थराया अपि निजहितैषित्वाविशयात्, तादृश्या तया त्रिर्वाचा चोपदिश्यमानत्वात्, दीक्षितपशुगृहन्यायेन पुनःपुनः श्रवणे परमस्वस्थस्याप्यभ्यस्यमानार्थे तात्त्विकत्वबुद्धेः लोकस्वाभाव्यात्, अन्ततः स्वकार्याय देवैरेव चित्तक्षोभस्य संपादनाच्च मन्थरावाक्यानुष्ठानमेव हितम्मन्यमाना तन्निर्वाहोपायमनुतिष्ठति । एवमुक्ता त्वित्यादि । क्रोधेन-दास्यप्राप्तिश्रवणजेन ॥ १ ॥
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।
यौवराज्येन भरतं [१]क्षिप्रमेवाभिषेचये ॥ २ ॥
प्रस्थापयामि-प्रस्थापयितुमुधुक्ताऽस्मि । तथा-'अभिषेचय'इत्यपि ॥ २ ॥
इदं त्विदानीं संपश्य केनोपायेन [२]मन्थरे !
भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ ३ ॥
केवलोत्साहस्याकिञ्चित्करत्वात्तान्निर्वाहोपायं पृच्छति-इदंत्वित्यादि । रामो ज्येष्ठपुत्रः राज्ञोऽतिप्रियश्च । ततस्तस्य विवासनं युष्मदस्मदुत्साहमात्रासाध्यं; अत इहोपायं चिन्तयेत्यर्थः ॥ ३ ॥