उरस्तेऽभिनिविष्टं वै यावत्स्कन्धं समुन्नतं ॥ ४१ ॥
अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।
उरः-स्तनयोर्बहिः हृदयादुपरिप्रदेशः । तत् स्थगुनाभिनिविष्टम् । अत एव यावत्स्कन्धात्समुन्नतत्वमुरसः । एतेन पुरःस्थगुमत्कुब्जत्वं प्रतिपादितम् । शातं-कृशं 'शाच्छोरन्यतरस्यां' इति पाक्षिक इत्वाभावः श्यतेः निष्ठायाम् । सुनाभं-शोभना नाभिर्यस्योदरस्य, तत्तथा । 'अच्' इति योगविभागात् अच् । लज्जितमिवेति । [१]स्थगोरधस्थाद्वर्तनजया लज्जया लज्जितमिव शातमिति योजना ॥
निर्मृष्टं-शोधितम् । रोमादिकश्मलहीनमितियावत् । [४]उपन्यस्त इति । जान्वेरिति शेषः ॥ ४३ ॥
त्वमायताभ्यां सक्थिभ्यां मन्थरे ! क्षौमवासिनी ॥ ४४ ॥
अग्रतो मम गच्छन्ती राजहंसीव राजसे ।
सक्तिभ्यां-पृष्ठफलकाभ्याम् ॥ ४४ ॥
आसन् याः शम्बरे मायाः सहस्रमसुराधिपे ॥ ४५ ॥
सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।