कुशलाः-सर्वव्याधिनिवारणकुशलाः । अभितुष्टाः-मदीय-सत्कारैरिति शेषः । सर्वशः-सर्वप्रकारेण । व्याधिमाचक्ष्वेति । व्याधि-प्रयुक्तं चेच्छयनमिति शेषः ॥ ३० ॥
[१]कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ॥ ३१ ॥
शयनहेतुपक्षान्तरोपन्यासः-कस्य वेत्यादि ॥ ३१ ॥
कः प्रियं लभतामद्य को वा सुमहदप्रियम् ।
[२]मा रोदीर्मा च कार्षीस्त्वं देवि ! संपरिशोषणम् ॥ ३२॥
पक्षद्वयनिमित्तोऽपि क्रोधो मास्त्वित्याह-कः प्रियमित्यादि । त्वत्प्रियो दरिद्र इति शेषः । तथा सुमहदप्रियं लभतां-त्वद्विप्रिय-कारीति शेषः । परिशोषणं-कायक्लेशम् ॥ ३२ ॥
अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् ।
दरिद्रः को भवेदाढ्यो द्रव्यवान् वाऽप्यकिञ्चनः ॥ ३३ ॥
अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।
न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ ३४ ॥
आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि ।
आत्मनो जीवितेनापि [३]निर्जीवनेनापि हेतुना त्वत्प्रियं व्याहन्तुं नोत्सहे ॥ ३४ ॥