स राजराजो भव सत्यसङ्गरः
कुलं च शीलं च हि रक्ष जन्म च ।
परत्र वासे हि वदन्त्यनुत्तमं
तपोधनाः सत्यवचो हितं नृणाम् ॥ २९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकादशः सर्गः
इममेवार्थं स्पष्टमुपदिशति-स राजराज इत्यादि । राजराजः-प्रसिद्धः । स त्वं सत्यसङ्गरो भव । तेनैव हेतुना कुलादिकं रक्ष । सत्यसङ्गरत्वमेव स्वजन्मादिरक्षणसाधनमिति कुत इत्यत्राह-परत्रेत्यादि । धरा (२९) मानः सर्गः ॥ २९ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकादशः सर्गः
द्वादशः सर्गः
[दशरथप्रार्थना]
ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ।
[१]चिन्तामभिसमापेद मुहूर्तं प्रतताप च ॥ १ ॥
अथ सत्यपाशबद्धस्य दशरथस्य घोरशोकः । तत इत्यादि । चिन्तामभिसमापेद इति । श्रुतार्थस्य वास्तवत्वासंभावनया भ्रम इत्येव निश्चित्य 'किंदोषजोऽयं भ्रमः' इति चिन्तां प्राप । मुहूर्तं-
- ↑ चिन्ताप्रकारः- किं निवत्यादिना, संतापप्रकारः 'इति संचिन्त्य' इत्यादिना च विव्रियत इति-गो.