त्वया पूर्वं-पूर्वकाले श्रीमान् धर्मज्येष्ठः स च-स एव मे ज्येष्ठसुतः, अनन्तरं भरत इति यत् परमप्रियत्वमुक्तं, तस्यैवेदानीं विवासनवादे ते व्याघातप्रसङ्गः । अपि च रामविषये प्रियवादिन्या त्वया यत् ज्येष्ठसुतत्वादिकमुक्तं तत्सर्वं मच्चित्तानुवर्तनेन मम सेवार्थमेव केवलं, ते तत्कथितं-[१]भावे निष्ठा–कथनम् ; वस्तुतस्तु सर्वथा रामविरसैवेत्यवगम्यसे । यत्-यस्मात् इदानीं, तत्-रामाभिषेचनं श्रुत्वा शोकसन्तप्ता सती विना वरमशक्याभिषेकनिर्वर्तनं मामपि निर्बन्धेन निवारयन्ती भृशं तापयसि, अतः केवलं मद्वञ्चनार्थस्ते राघवसाधुवाद इति इदानीं जानीम इत्यर्थः । एवं जिज्ञासया एवं बादायोगे तात्त्विकत्वे च रामाभिषेकनिवारणस्य (च) स्वस्थचित्ताया अयुक्तत्वात् प्रायेण ग्रहाविष्टैवेत्याह-[२]आविष्ठैवेत्यादि ॥ १८ ॥
[३]इक्ष्वाकूणां कुले देवि ! संप्राप्तः सुमहानयम् ।
अनयो नयसंपन्ने यत्र ते विकृता मतिः ॥ १९ ॥
न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम ।
अकरोस्त्वं विशालाक्षि ! तेन न श्रद्दधामि ते ॥ २० ॥
- ↑ अत्र 'तत् त्वये' ति स्थाने-'त्वया ते' इति व्याख्यापाठः स्यात् ॥ अत एव पूर्व-श्लोकगतेन 'व्याहृतं' इत्यनेन त्वयेत्यस्यान्वये अनन्तरं ते इत्यस्य कथितमित्यनेनान्वयो वाच्यः । एवञ्च कथितमिति भावे क्तः
- ↑ आविष्टासीत्येव सर्वत्र पाठो दृश्यते । अत्र-आविष्टासीत्यस्योपपादकं-'यत्र ते विकृता मतिः' इत्यन्तम् । 'न श्रद्दधामी' त्यस्योपपादकं-इक्ष्वाकूणामित्यादि
- ↑ यत इक्ष्वाकुकुले महानयमनयः-ज्येष्ठाभिषेकनिवृत्ति-रूपः संप्राप्तः, हे नयसंपन्ने ! यत्राभ्ये ते तव विकृता मतिः कारणमिति शेषः । अतस्त्वं
ग्रहाविष्टेति भावः ॥ ति. नयसंपन्ने-एतावत्कालं नीतिशालिनि यत्र- इक्ष्वाकुकुलमध्ये ते मतिरेवमिदानीं विकृता जाता-तत्र कुले, अयं सन्निहितः सुमाहानयः-अनर्थः संप्राप्तः-गो.