पुटमेतत् सुपुष्टितम्
२० सर्गः]
217
आयसं हृदयं मे यत् श्रुत्वाऽप्येतन्न दीर्यते
ममैव नूनं मरणं न विद्यते
न चावकाशोऽस्ति यमक्षयेऽपि वा ।
यदन्तकोऽद्यैव न मां जिहीर्षति
[१]प्रसह्य सिंहो रुदतीं मृगीमिव ॥ ५० ॥
ममैवेत्यादि । लौकिकातिवृद्धोक्तिजातिरियम् ॥ ५० ॥
अयसा निर्मितं-आयसम् । अनेन च दुःखेनार्पितमपि देहं ; 'देहः क्लीबपुंसोः' ; हि यस्मात् न विदीर्यते; अतोऽकाले-ईश्वर-कल्पितकालव्यतिरिक्त काले मरणं न विद्यते, न लभ्यते च; लाभार्थक विदेर्यत् ; तन्त्राभिप्रायत उभयम् ॥ ५१ ॥
यत् व्रतादीनि-अनर्थकानि जातानि, तदिदं तु महद्दुःखम् । आनर्थक्ये दृष्टान्तः-ऊषरे उप्तं, अत एव सुनिष्फलं बीजामिवेति ॥