अनेकाग्रे-कामवशादुक्तवानप्रस्थधर्मानुष्ठानैकाग्र्यरहिते राजनि स धर्मो ज्येष्ठराज्याभिषेकपूर्ववनवासधर्मो न चेत्, हे धर्मात्मन् ! राज्यबिभ्रमशङ्कयैव-कुलदूषणकरकनिष्ठराज्यकरणरूपविपर्ययप्रसङ्गादेव- तत्परिहारार्थमेव केवलं-आत्मनि राज्यकामत्वं- राज्यरूपभोग्यसम्बन्ध-वत्त्वमिच्छसि–अङ्गीकरोषि चेत्, तावन्मात्रमेव त्वया संपाद्यं प्रजारक्षणक्लेशो न त्वयाऽनुभवितव्यः, वेला सागरमिव तव राज्यमहं रक्षेयं ;अन्यथाऽहं वीरलोकभाक् मा भूवमिति प्रतिजाने च । अत्र यद्वा भट्टः इतस्ततः कुड्येन शिरस्ताडयति । तत्र न किञ्चिदपि सङ्गतं पश्यामः ॥
[१]मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतोऽभव ॥ २९ ॥
यदेवं अतः-मङ्गलैः-अभिषेकसाधनैः अभिषिञ्चस्वात्मानम् । तत्र त्वं-तत्रैवाभिषेकव्यापारे व्यापृतः-व्यापृतचित्तो भव ॥ २९ ॥
अहमेको महीपालानलं वारयितुं बलात् ।
भवत्प्रतिबन्धनिरासेऽहं तिष्ठामीत्याह-अहमित्यादि । अलं-समर्थोऽस्मि ॥