यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता ।
तानि त्वामभिरक्षन्तु गुणैस्समुदितं सदा ॥ ५ ॥
पितृशुश्रूषया, पुत्र ! मातृशुश्रूषया तथा ।
सत्येन च, महाबाहो ! चिरं जीवाभिरक्षितः ॥ ६ ॥
समित्कुशपवित्राणि वेद्यचायतनानि च ।
स्थण्डिलानि [१]विचित्राणि शैला वृक्षाः क्षुपा हृदाः ॥ ७ ॥
पतङ्गाः पन्नगास्सिंहाः त्वां रक्षन्तु, नरोत्तम !
समित्कुशादौ तदधिष्ठात्र्यो देवता उपलक्ष्यन्ते । क्षुपाः-ह्रस्वशाखास्तरवः ॥ ७ ॥
स्वस्ति–कुर्वन्त्वित्यग्रेण सम्बन्धः । धाता-आधार[४]धर्मप्रधानो भगवान्विराड्विष्णुः । विधाता- स्रष्टा, स एव सर्गविधायकः प्राजापत्यात्मा । [५]पूषा भगोऽर्यमेति रेवत्यादिनक्षत्राधिष्ठातृदेवताः ॥८॥
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ।
ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः ॥ ९ ॥
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा ।
[६]स्मृतिधृतिश्च धर्मश्च पातुं त्वां, पुत्र ! सर्वतः ॥ १० ॥
स्मृतिधृती-ध्यानसमाधिलक्षणयोगौ ॥ १० ॥