पुटमेतत् सुपुष्टितम्
302
[अयोध्याकाण्डः
सीतादृढाध्यवसायः
न केवलं ब्राह्मणमुखीद्वनवासश्रवणं, अपि तु तापसीमुखादपीत्याह-कन्ययेत्यादि । गेह इति । स्थितवत्येति शेषः । भिक्षिणी- ब्रीह्यादित्वादिनिः, तापसीति यावत् ॥ १३ ॥
प्रसादितश्च वै पूर्वं त्वं वै बहु[१]विधं, प्रभो !
गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥ १४ ॥
वनवासस्य गमनं प्रति प्रसादित इति योजना ॥ १४ ॥
[२]कृतक्षणाऽहं, भद्रं ते, गमनं प्रति, राघव !
वनवासस्य शूरस्य चर्या हि मम रोचते ॥ १५ ॥
कृतक्षणा-कृतानुमतिका । वने वासो यस्य स तथा । चर्याशुश्रूषा ॥ १५ ॥
[५]प्रेत्यभावेऽपि [६]कल्याणसङ्गमो मे सह त्वया । अनुगच्छन्ती विकल्मषा भविष्यामीति योजना । प्रेत्यभावेमृत्वा शरीरान्तरपरिग्रहेऽपि हि यस्मात् त्वया कल्याणसङ्गमः-दिव्यसुखहेतुस्सङ्गमस्सिद्धः-अत इह नित्यसङ्गमः कैमुतिकसिद्ध इत्यर्थः ॥
- ↑ तिथं-ङ. च.
- ↑ क्रतः क्षणः-उत्सवः उत्साहः यया सा । कृतोत्साहेत्यर्थः । अहं गमनं प्रति कृतोत्साहा । हे राम! ते भद्रं भवतु इत्यन्वयः ।
- ↑ प्रेष्य-ङ.
- ↑ पर-ङ. च.
- ↑ एतदनन्तरं-'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रो रक्षन्ति वार्ध्यक्ये न स्त्री स्वातन्त्र्यमर्हति ॥ इत्यधिकम्-ङ.
- ↑ कल्याणः संगमः-ङ. च,