पुटमेतत् सुपुष्टितम्
३१ सर्गः]
315
तदैच्छलक्ष्मणोऽप्येवं अनुगन्तुं रघूद्रहम्
एकत्रिंशस्सर्गः
[लक्ष्मणवनानुगमनाभ्यनुज्ञा]
एवं [३]दृढनिश्चितससीतरामगमनलक्ष्मणकृतानुगमनप्रार्थनेन रामेण लक्ष्मणानुगमनानुमतिः एवमित्यादि । उक्तप्रकार सीतारामसंवाद श्रुत्वेति-तत्र हेतुः-लक्ष्मणः पूर्वमागत इति । संवादप्रवृत्तेः पूर्वमेव रामेण सह मातृगृहमागत इत्यर्थः । अतियशां-उत्कृष्ट-कीर्तिमतीं । महाव्रतं-वनवासलक्षणमहाव्रतकृत-निश्चयमित्यर्थः ॥ २ ॥
[४]यदि गन्तुं कृता बुद्धिः वनं मृगगजायुतम् ।
अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ ३ ॥
गन्तुं बुद्धिः कृता यदीति । युवाभ्यामिति शेषः । अहन्त्वेति । हे प्रजावति ! त्वां, हे राम ! त्वां चेत्यर्थः । वनमनुगमिष्यामि-वनं गन्तारौ युवामनुगमिष्यामि । अपि च गमनकाले अग्रत एव धनुर्धरो गमिष्यामि ॥ ३ ॥
- ↑ अतियशाः-इति प्रसिद्धस्स्वरसश्च पाठ: लक्ष्मणविशेषणं । को वा एवं
स्वभार्यामपि परित्यज्यान्येन सपत्नीकेन साकं वनं गच्छेदित्याशयः - ↑ महाव्रतं--'अभयं सर्वभूतेभ्यो ददाम्येनद्व्रतं मम' इत्युक्तगुरुतरव्रतयुक्तम्-गो. युक्तश्चैतदेव । व्रत शब्दस्वारस्यात् । चरणौ निपीड्येति–अत्रापि शरणागतेः वात्.
- ↑ दृष्टनिश्चित-क.
- ↑ यदीत्यनेन रामवनगमने स्वानभिमतिरसूच्यते लक्ष्मणेन ।