ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः ।
स्थित [१]प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ ९ ॥
अग्रतस्स्थितं-प्राग्गामिनं-निश्चितवनप्रथमगमनं-तत्रानुमतिं याचमानम् ॥ ९॥
स्त्रिग्धो धर्मरतो वीरस्सततं सत्पथे स्थितः ।
प्रियः प्राणसमो वश्यो [२] व.भ्राता चासि सखा च मे ॥ १० ॥
वश्यविधेयौ मुहुर्व्याकृतौ ॥ १० ॥
मयाऽद्य सह, सौमित्रे ! त्वयि गच्छति तद्वनम् ।
को [३]भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११ ॥
को भरिष्यतीति । एवञ्च मातृपरिरक्षणार्थमेव प्रतिषिध्यसे । पूर्वन्तु आभिषेचनिकालंकारप्रतिसंहारविषये मदनुविधानं मदिष्टत्वादुक्तम् । न तु वनानुगमने मदनुविधानमनुशिष्टमित्युक्तं भवति ॥ ११॥
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव
स काम[४]पाशपर्यस्तो महातेजा महीपतिः ॥ १२ ॥
कामैः–इष्टान्नपानादिरूपैः। ननु वास्ते रक्षकः इत्यत्राह स कामपाशेत्यादि ॥ १२ ॥
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेस्सुता ।
दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३ ॥
न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ।
भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ १४ ॥