पुटमेतत् सुपुष्टितम्
३१ सर्गः]
319
अङ्गीचकार सौमित्रेः प्रार्थनां रघुनन्दनः
राममात्रुपेक्षायां ममानर्थो महान् भवितेति मत्वा सम्यक् पूजयिष्यतीत्यर्थः ॥ १९ ॥
तदेव कालान्तरीय तस्य भयं प्रदर्शयति-यदीत्यादि । त्रैलोक्यमपीति । तत्पक्ष्यं वधिष्यामीत्यनुकर्षः । वध हिंसायामिति प्रकृत्यन्तरम् । इदानीं स्वात्मभरणे-स्वसंरक्षणे कौसल्यायाः कस्याप्यपेक्षा नास्तीति दर्शयति-किन्वित्यादि । या कौसल्या सहस्रं मद्विधानपि बिभृयात्, सा स्वात्मानं बिभृयादिति किन्नु-किमु । कुतस्तस्या एवं शक्तिरित्यत्राह-यस्या इत्यादि । यस्याः [५] [६]उपजीविनां ग्रामाणां सहस्रं प्राप्तमभूत् ॥ २२ ॥
तदात्मभरणे चैव मम मातुस्तथैव च ।
पर्याप्ता मद्विधानां च भरणाय यशस्विनी ॥ २३ ॥
यदेवं अतः-तदित्यादि ॥ २३ ॥
- ↑ इदं श्लोकद्वयं कुत्रचिन्नोपलभ्यते-ङ.
- ↑ उत्तमं राज्यं प्राप्येत्यन्वयः.
- ↑ किन्तु सा-ङ.
- ↑ उपजीवनं-स्वेष्टविनियोगाय दीयमानम्.
- ↑ प्रसादात् अस्य प्राप्तमित्यत्रान्वयः । सम्बन्धसामान्ये षष्ठी। उपजीविभि: प्राप्तमिति यावत् । स्वोपजीविभ्यो ग्रामसहस्रदानेऽपि यदि शक्तिवर्तते तर्हि स्वरक्षणे किमु वक्तव्यमित्याशयः
- ↑ मुपजीवनम्-ङ.