[१]ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।
जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ २९ ॥
अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ ।
आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ ३० ॥
सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि ।
स त्वमायुधमादाय क्षिप्रमात्रज, लक्ष्मण ! ॥ ३१ ॥
अनेनेति । स्वपतश्च करिष्यामीत्यन्तवाक्येनेत्यर्थः । व्रज-अनुव्रजेत यावत् । आपृच्छस्व-अनुजानीहि । ये च राज्ञ इति । सुहृज्जनं तं चापृच्छस्वेत्यनुकर्षः । अनन्तरं जनकस्य महायज्ञे महात्मा वरुणः स्वयमेवागत्य रौद्रदर्शने-भयङ्करदर्शने ये धनुषी आवयोर्ददौ ; तथाऽभेद्यकवचादिकं च यत्प्रत्येकमावयोर्ददौ ; तत्सर्वमाचार्यसद्मनि तत्पूजार्थमाचार्यं सत्कृत्य निहितं-निक्षिप्तम् । एवमनुवादादेव धनुरादिदानं तत्र सिद्धम् । आयुधमिति जात्या ॥ २८-३१ ॥
स सुहृजनमामन्त्र्य वनवासाय निश्चितः ।
इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ ३२ ॥
स इति । लक्ष्मण इति यावत् ॥ ३२ ॥
- ↑ तिलके-गोविन्दराजीये च इदमुत्तरश्लोकान्त्रिततया व्याख्यातम् । राज्ञ इति जनकविशेषणम् । ये इति द्वितीयाद्विवचनान्तं धनुषीत्यस्य विशेषणम् । एवञ्च जनकस्य राज्ञः महायज्ञे ये धनुषी वरुणो ददौ- इत्यन्वयः। परन्तु ते जनकस्य ददौ, तच्च तजनकेन रामाय दत्तमित्यर्थ इति गोविन्दराजीये । बालकाण्डेऽनुक्तोऽयं वृत्तान्तोऽत्रानु-बादात्सिद्धः । यथा सुन्दरकाण्डे 'मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे' इति, यथा चायोध्याकाण्डेऽनभिहितोऽपि वायसवृत्तान्तः सुन्दरकाण्डेऽनूद्यते इति चोक्तं
गोविन्दराजीये ।