पुटमेतत् सुपुष्टितम्
३२ सर्गः]
329
स्वोपजीविजनेभ्योऽपि ददौ रामो धनं बहु
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ॥ २५ ॥
अशून्यं कार्यमेकैकं यावदागमनं मम ।
अशून्यं कार्यमिति । यथापूर्वं युष्माभिरत्रोपविश्य रक्षणीयमित्यर्थः ॥ २५ ॥
द्विजेभ्यो वालवृद्धेभ्यः [४] कृपणेभ्यां ह्यदापयत् ।
कृपणेभ्यो ह्यदापयदिति । भूरिदानरूपतयेति शेषः ॥ २८ ॥
तत्रेति । तस्मिन् काले देशे चेत्यर्थः । फालं-हलावयवविशेषः-। कुद्दालं-कन्दखननसाधनविशेषः-लाङ्गलं-हलं । वानप्रस्थत्वादिदं साधनं कन्दादिसंपादनार्थं । उञ्छनं-व्रीह्यर्थम् ॥ २९ ॥
- ↑ स्वोपजीविभ्यो विशिष्य धनदानमुक्तम् । अथेतरेभ्यो दानमुच्यते
- ↑ मानीयतां मम-ङ.
- ↑ सर्व एवो ङ.
- ↑ दरिद्रेभ्यो-ङ.
- ↑ पिङ्गलः-पिङ्गलवर्ण इति दारिद्र्यलक्षणोकपिलकेशो वा । आसीत्- देवात्तदावी समीपे संगतोऽभूदिति भावः- गो.
- ↑ क्षतवृत्तिः भूखननेन जीवनवान्। उच्छवृत्तिरिति पाठो न स्वरसः फालकुदालेत्यदिरवक्तव्यत्वात्-सत्य. क्षतवृत्तिः-क्षीणवृतिः-ति. उञ्छवृत्तिः--शि. खलादौ परित्यक्तधान्यस्य संग्रहणं-उन्छः ।
- ↑ क्षतवृत्तिः- ङ. च