पुटमेतत् सुपुष्टितम्
338
[अयोध्याकाण्डः
पौरवाक्यम्
रजसाऽभ्यवकीर्णानि परित्यक्तानि देवतैः ।
[१]मूषकैः परिधावद्भिरुद्विलैरावृतानि च ॥ १९ ॥
उद्विलैः-उत्सृष्टबिलैः ॥ १९ ॥
अपेतोदकधूमानि हीनसंमार्जनानि च ।
प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च ॥ २० ॥
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ।
अस्मत्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ २१ ॥
दुष्कालः-राजिकदैविकक्षोभकालः ॥ २१ ॥
वनं नगरमेवास्तु येन गच्छति राघवः ।
अस्माभिश्व परित्यक्तं पुरं संपद्यतां वनम् ॥ २२ ॥
बिलानि दंष्ट्रिगस्सर्वे सानूनि मृगपक्षिणः ।
त्यजन्त्वस्मद्भयाद्गीता गजास्सिह्मा वनान्यपि ॥ २३ ॥
[२]अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ।
दंष्ट्रिणः-सर्पाः । सानूनि-पर्वतप्रस्थाः । अस्मत्यक्तमिति । पुरमिति शेषः। सेव्यमानं-अस्माभिराश्रियमाणं । वनमिति शेषः ॥