यथानिदेशं कर्तुं वै तवैव, रघुनन्दन ! ॥ ४५ ॥
अपगच्छतु ते दुःखं मा भूर्वाष्पपरिप्लुतः ।
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितांपतिः ॥ ४६ ॥
नैवाहं राज्यमिच्छामि न सुखं न च [१]मैथिलीम् ।
नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम् ॥ ४७ ॥
त्वामहं सत्यमिच्छामि नानृतं, पुरुषर्षभ !
प्रत्यक्षं तव सत्येन सुकृतेन च [२]ते शपे ॥ ४८ ॥
प्रत्यक्षं तवेति । तव सन्निधावित्यर्थः ॥ ४८ ॥
न च शक्यं मया, तात ! स्थातुं क्षणमपि, प्रभो !
[३]स शोकं धारयस्वैनं, न हि मेऽस्ति विपर्ययः ॥ ४९ ॥
क्षणमपीति। इह पुर इति शेषः । विपर्ययः-विपरीतानुष्ठानं-इहाद्य स्थितिरूपम् ॥ ४९ ॥
[४]अर्थितो ह्यस्मि केकैय्या वनं गच्छेति, राघव !
मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ ५० ॥
वनं गच्छेति । अद्यैवेति शेषः ॥ ५० ॥
मा चोत्कण्ठां कृथाः, देव ! वने रंस्यामहे वयम् ।
प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥ ५१ ॥
उत्कण्ठा-शोकातुरतया स्मरणम् । रंस्यामह इति सीतासौमित्रिसम्बन्धात् ॥ ५१ ॥