वेदनं कीदृशमित्यतस्तत्प्रतिपादयति-पितुरित्यादि । वरदः-कश्चिदृषिरिति यावत् । अनुत्तमं वरं-अव्यक्तवाग[१]वर्ण्यसर्वभूतरुतपर-स्परबोधनीयार्थज्ञानविषयकं । तस्मात् उक्तलक्षणवरदानबलादेव । स वसुधाधिपः सर्वभूतरुतं-तत्प्रतिपाद्यभावजातं संजज्ञे-जानीते स्म । तिर्यग्गतानामिति । तिर्यक्स्रोतोगतपशुपक्ष्यादीनामित्यर्थः ॥ १७ ॥
ततो [२]जृम्भस्य शयने विरुताद्भूरिवर्चसः ।
पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥ १८ ॥
ततः-तत एव हेतोः कदाचिच्छयने शयानो राजा जृम्भस्य-तदाख्यस्य पक्षिणो विरुतान् श्रुत्वा मूरिवर्चसस्ते पितुस्तस्य पक्षिणो भावः-अभिप्रायः विदितः-अवगतः अतः तत्र-शयने शयान एव बहुधाऽहसत्-भावपरिज्ञानजसन्तोषेण द्विस्त्रिरहसत् ॥ १८ ॥
अथ तत्र शयने शयाना ते जननी क्रुद्धाऽभवत्-मामयं परिहसतीति । अथ राज्ञा तु, हासस्त्वद्विषयको न भवति, कश्चन वरोऽस्ति, तेन मे भूतान्तरभावज्ञानसामर्थ्यमस्ति, अतस्तज्ज्ञानादहासिषमित्युक्ते, हे नृपते ! तं वरं जिज्ञासामि । कीदृशोऽसौ । केन प्रोक्तमिति जिज्ञासामीत्यब्रवीत् ॥ १९ ॥
नृपश्चोवाच तां देवीं, देवि ! शंसामि ते यदि ।
ततो मे मरणं सद्यो भविष्यति न संशयः ॥ २० ॥