चीराण्यपास्यात्-त्यजतु । तत्र हेतुमाह-नेयमित्यादि । सीतापि चीरवासिनी वनं यात्विति त्वया प्रतिज्ञाते सा प्रतिज्ञा [१]मम-मया न दत्तपूर्वा, नानुमतपूर्वा यतः तस्मादेव यथासुखं गच्छतु ॥ ५ ॥
अजीवनार्हेणेति । गले पादुकान्यायेन प्राप्तप्रियपुत्रवनवासानुमतिकेन-जीवनक्षमदशारहितेन मया या नृशंसा-अतिक्रूरा राम[५]विवास-विषयिणी प्रतिज्ञा कृता, सा तावत् क्रियते न ? नञ् स्वरे, तावच्छब्दो वाक्यालंकारे, क्रियत एव किलेत्यर्थः अतो यदेतदभ्यधिकं सीता वीरग्रहणमपि प्रतिपद्यसे तदेव त्वया बाल्यात्-अज्ञाना-देव प्रतिपन्नम् । नात्र ते सामर्थ्यम् । तत्-तस्मात् वेणुमात्मपुष्पमिव त्वत्कृतातिप्रवृत्तिस्त्वां मा दहेत्-मा नाशयतु । असाध्यव्यापाराद्विरमेत्यर्थः ॥ ६ ॥
[६]रामेण यदि ते, पापे ! किञ्चित्कृतमशोभनम् ।
अपकारः क इह ते वैदेह्या दर्शितोऽधमे ! ॥ ७ ॥
क इहेति । चीरग्रहणपूर्वकवनवासप्रयोजनक इति दर्शितः-सम्पादितः ॥ ७ ॥