पुटमेतत् सुपुष्टितम्
400
[अयोध्याकाण्डः
पौरव्यसनम्
तेषां वचः सर्व[१]गुणोपपन्नं
प्रखिन्नगात्रः प्रविषण्णरूपः ।
निशम्य राजा कृपणः सभार्यः
व्यवस्थितस्तं सुतमीक्षमाणः ॥ ५१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चत्वारिंशस्सर्गः
व्यवस्थितः–स्थितवानित्यर्थः । [२]आशा (५०) मानः सर्गः ॥ ५१ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चत्वारिंशस्सर्गः
एकचत्वारिंशस्सर्गः
[पौरव्यसनम्]
तस्मिंस्तु पुरुषव्याघ्रे [३].विनिर्याते कृताञ्जलौ ।
आर्तशब्दोऽथ संजज्ञे स्त्रीणामन्तःपुरे महान् ॥ १ ॥
अथ रामवनप्रयाणनिमित्तः सर्वप्रजाशोकः । तस्मिंस्त्वित्यादि ।
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ।
यो गतिश्शरणं चासीत् स नाथः क्व नु गच्छति ॥ २ ॥
तपस्विनः शोच्यस्येति यावत् । यो गतिः-सकलसुखावाप्तिहेतुः । शरणं-सर्वापत्राता ॥ २ ॥