पुटमेतत् सुपुष्टितम्
४१ सर्गः]
401
आर्तशब्दो महान् जज्ञे रामे प्रब्राजिते वनम्
क्रोधनीयानि-क्रोधकारणानि । क्वचिदिति क्व नु गच्छतीति शेषः ।
प्रवत्स्यतीति । प्रवासयतीति यावत् ॥ ६ ॥
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥ ७ ॥
स तमन्तःपुरे घोरं आर्तशब्दं महीपतिः ।
पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः ॥ ८ ॥
[६]नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत ।
व्यसृजन् कबलान् नागाः गावो वत्सान्न पाययन् ॥ ९ ॥
- ↑ अभिशप्तः-मिथ्यादोषेण निन्दितः ।
- ↑ कचिदित्यस्य न क्रुध्यतीत्यनेन सम्बन्धः-गो.
- ↑ स इतः-ङ.
- ↑ संक्षयं-आधारत्वेन गृहभूतम्-ति.
- ↑ संक्षयं-च.
- ↑ नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः । अकुर्वन्न प्रजाः कार्यं सूर्यश्चान्तरधीयत ॥ व्यसृजन् कबलान् नागा गावो वत्सान्न पाययन् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ इति क्रमः-- ङ.