पुटमेतत् सुपुष्टितम्
४२ सर्गः]
409
विलपन् बहुधा राजा प्रविवेश स्वपत्तनम्
प्रस्रवणात्-गिरिप्रस्थादिप्रदेशात् । करेणूनामृषभ इवेति । गजयूथप इवेति यावत् ॥ १७ ॥
सुखस्य सदोचिता तथा । कण्टकेष्वाक्रपणं-पदविक्षेपस्तथा ॥
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ।
श्वापदानर्दितं श्रुत्वा गंभीरं रोमहर्षणम् ॥ २० ॥
आनर्दितं-शब्दम् ॥ २० ॥
सकामा भव, कैकेयि ! विधवा राज्यमावस ।
न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ २१ ॥
सकाम । भवेति । एवं सीतादेरनपकारिप्राणिनो दुःखं कृत्वेति शेषः । विधवा राज्यमावस इति । कुत एवंवाद इत्यतः-न हीत्यादि ।
- ↑ उत्थास्यतीति पूर्वश्लोके कथनात् तदनुवादोऽत्र । अनाथवद्गच्छन्तमित्यन्वयः ।
- ↑ क्रमणाकान्ता-ङ.
- ↑ बहुकालानन्तरं प्राप्तस्य पुत्रस्य मरणे, यथा मृतस्नातः सुदुःखार्तः सूतिकागृहं प्रविशेत् तथेति भावः । प्राप्तपुत्रोऽपि हि दशरथः न पुत्रसुखं लब्धवान्, राज्याभिषेककाल एव स्वाभीष्टहानेः । एवञ्च दशरथः पुनः रामाधीनसुखं अप्रतीक्षमाणः उत्पन्न विनष्टपुत्रमिवात्मानं मेने । दशरथमनोभावस्य तथाऽवस्थितेर्नेमश्लीलोक्तिः ॥
- ↑ गृहोत्तमम्-ङ.