पुटमेतत् सुपुष्टितम्
४२ सर्गः]
411
रुदन् दशरथो दीनः कौसल्याया गृहं ययौ
कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम् ।
न ह्यन्यत्र ममाश्वासः हृदयस्य भविष्यति ॥ २७ ॥
नयन्त्विति । शिबिकावाहका इति शेषः । अन्यत्रेति । तद्व्यतिरिक्तस्त्रीगृह इत्यर्थः । आश्वासः-चित्तखेदापगमः ॥ २७ ॥
इति ब्रुवन्तं राजानं अनयन् द्वारदर्शिनः ।
कौसल्याया गृहं यत्र [१] न्यवेश्यत विनीतवत् ॥ २८ ॥
द्वारदर्शिनः-वेत्रिणः । विनीतवत्-विनीतास्सन्तः कौसल्याया गृहमनयन् ॥ २८ ॥
[२]ततस्तत्र निविष्टस्य कौसल्याया निवेशनम् ।
अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ २९ ॥
तत्र तैर्न्यवेश्य ततस्तत्र निविष्टस्य राज्ञः कौसल्याया निवेशनं,अन्ततस्तस्याश्शयनमधिरुह्यापि मनः लुलितं-कलुषितमेव बभूव ॥ २९ ॥