मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः ।
यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ ३१ ॥
तदेवाह-मुहूर्तमित्यादि । रथं पुनरिति । इहेति शेषः । न विद्युः-न जानीयुः ॥ ३१ ॥
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ।
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ ३२ ॥
तथा चक्र इति । उदङ्मुखतया गत्वा प्रतिनिवृत्तः-मार्गान्तरेणागत इति यावत् । एवमुदङ्मुखरथमार्गदर्शने रामः पुरं प्रति निवृत्तवानिति पौराणां भ्रमः सिध्यति ॥ ३२ ॥
तौ संप्रयुक्तं तु रथं समास्थितौ
तदा ससीतौ रघुवंशवर्धनौ ।
प्रचोदयामास ततस्तुरङ्गमान्
स सारथिर्येन पथा तपोवनम् ॥ ३३ ॥
समास्थितौ-समास्थितावभूतामिति योजना । तपोवनमिति । येन पथा प्राप्यते, दाक्षिणमिति शेषः ॥ ३३ ॥
ततः समास्थाय रथं महारथः
ससारथिर्दाशरथिर्वनं ययौ ।
[१]उदङ्मुखं तं तु रथं चकार
प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ ३४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्चत्वारिंशस्सर्गः
- ↑ उदङ्मुखप्रयाणानुकूलनिमित्तदर्शनात् रथमुदङ्मुखं चकार । न तु ययौ-व्रतभङ्गप्रसङ्गादित्याशयः ।