पुटमेतत् सुपुष्टितम्
४८ सर्गः]
449
कैकेयीं बहुधा सर्वे ते निनिन्दुः तदाग्रहात्
अनेन वासेन को नु संप्रीयेतेति योजना । अप्रतीतेन-असुखेन । सशोकस्मरण-उत्कण्ठा, सोत्कण्ठतया कृतः सोत्कण्ठितः, तादृशः जनः यस्मिन्नयोध्यावासे स तथा । हृतचेतसा-चित्तनाशकेन ॥ २० ॥
कैकेय्या यदि चेत् राज्यं स्यादधर्म्यमनाथवत् ।
न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ २१ ॥
अधर्म्यं-धर्मापेतम् ॥ २१ ॥
यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।
कं सा [१]परिहरेदन्यं कैकेयी कुलपांसनी ॥ २२ ॥
पुत्रश्चेति । राम इत्यर्थः । परिहरेत्-रक्षेत् ॥ २२ ॥
जीवन्त्याः कैकेय्या राज्ये तस्या भृतकाः-भृत्यभूताः जीवन्त्यस्सत्यः न निवसेमहि, न वसेमेति यावत् । इममर्थं प्रति पुत्रैरपि शपामहे, शप उपालंभे ॥ २३ ॥
या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा ।
कस्तां प्राप्य सुखं जीवेत् अधर्म्यां दुष्टचारिणीम् ॥ २४ ॥
तां आधर्म्यां-धर्मापेताम् ॥ २४ ॥