पुटमेतत् सुपुष्टितम्
470
[अयोध्याकाण्डः
लक्ष्मणसन्तापः
त एते अनन्तरं यथापूर्वं सुमङ्गलां राजधानीं विचरिष्यन्ति ॥
तिष्ठत इति । एवं परिदेवनं कृत्वा अवस्थितस्येत्यर्थः ॥ २६ ॥
तथा तु सत्यं ब्रुवति प्रजाहिते
नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः ।
मुमोच बाष्पं व्यसनाभिपीडितः
ज्वरातुरो नाग इव व्यथातुरः ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकपञ्चाशः सर्गः
- ↑ जनानामयं स्वभावः-यत् अतीतं महान्तमपि दुःखं कालक्रमेण विस्मरन्तीति इत्यभिप्रेत्योच्यते-रम्वेत्यादि । समाजैः-अनेकजनैः मिलित्वा क्रियमाण उत्सवः समाजोत्सवः ।
- ↑ रम्यप्रासादसंपूर्णा-ङ,
- ↑ पश्याम-ङ.
- ↑ अस्मिन् रामे निवृत्तवनवासे सति, अत एव सत्यप्रतिज्ञेन कुशलेन पित्रा साधं वयमयोध्यां अपि प्रविशेमहीत्यन्वयः ।
- ↑ कुशलिनो-ङ.
- ↑ निवृत्ते वन-ङ.
- ↑ तिष्ठतः-अनासीनस्यैव ।