ततोऽब्रवीन्महाबाहुः लक्ष्मणं लक्ष्मणाग्रजः ।
संनिवेद्य यथान्याय्यं आत्मानमृषये प्रभुः ॥ १८ ॥
आत्मानं निवेद्येति । अमुकस्य पुत्रः, अमुकहेतोरिहागतवानस्मि-इत्यादिकमुक्त्वेत्यर्थः ॥ १८ ॥
लक्ष्मणानय दारूणि दृढानि च वराणि च ।
कुरुष्वावसथं, सौम्य ! [१]वासे मेऽभिरतं मनः ॥ १९ ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।
आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ २० ॥
तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् ।
शुश्रूषमाणमेकाग्रं इदं वचनमब्रवीत् ॥ २१ ॥
निष्ठितां-अन्तर्बहिः प्राकारभित्त्या सुप्रतिष्ठिताम् । [२]बद्धकटां-छान्दसो वर्णलोपः-बद्धकबाटां, पृषोदरादित्वात्, कटे वृत्तौ वर्षे-कटति वर्षवारणं करोतीति कटः-छदिः-बद्धच्छदिषमिति यावत् ॥ २१ ॥
ऐणेयं-मांसमाहृत्य शालां यक्ष्यामहे वयम् ।
कर्तव्यं वास्तुशमनं, सौमित्रे ! चिरजीविभिः ॥ २२ ॥
एणेयं-एणाड्ढञ् विकारे । शालां यक्ष्यामह इति । पर्णशालाधिष्ठातृदेवता इत्यर्थः । तास्तु 'शय्यादेशे कामलिङ्गेन, देहल्यामन्तरिक्षलिङ्गेन' इत्यादि बलिहरणखण्डप्रतिपाद्यमानाः । ततः पूर्वं वास्तुशमनम् । वास्तुशान्तिर्बोधायनोक्ता ॥ २२ ॥
मृगं हत्वाऽऽनय क्षिप्रं लक्ष्मणेह, शुभेक्षण !
कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनु[३]स्मर ॥ २३ ॥