स वै अनुरूपो नाथः, अस्मद्राज्यस्येति शेषः ; न केवलमेतावत्, अपि तु-त्रैलोक्यमपीत्यादि । येनेति । प्रसिद्धेनेति यावत् ॥
श्रेयसाऽनेन-ईयसुनि 'प्रशस्यस्य श्रः' इति श्रादेशः, प्रशस्तेनानेन रामेणेत्यर्थः । महीं संयोज्य गतक्लेशः ॥ १४ ॥
यदीत्यादि । मया यन्नियन्त्रितं-नियमितं मद्विषयकरूपं कार्यं तद्यदि साधु भवतां अनुरूपार्थं-अनुकूलप्रयोजनावहं च तदा भवन्तो मे इदमनुमन्यन्ताम् । कुतोऽस्मदनुमतिर्महाराजस्य तवेत्यतः-कथमित्यादि । [६]अहं कथं करवाणि ? विना युष्माकमनुमतिमिति शेषः ॥
यद्यप्येषा मम प्रीतिः, हितमन्यद्विचिन्त्यताम् ।
अन्या मध्यस्थचिन्ता हि विमर्दास्यधिकोदया ॥ १६ ॥
ननु त्वदभ्यधिकः कः हिताहितविचारसमर्थः ? इत्यत्राह-यद्यपीत्यादि । एषा चिन्ता यद्यपि मम प्रीतिः-प्रीतिमात्र विजृम्भिता, अथापि वास्तवं अन्यत्-अन्यादृशं हितं अस्ति चेत् तत् विचिन्त्यताम् । ननु कथमभ्यधिकदर्शनशङ्केत्यतः–अन्येत्यादि । मध्यस्थाः-रागरोष-वियुक्ताः तत्त्वचिन्तकाः; तेषां चिन्ता, अन्या तु-अन्यादृश्येव ।