पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/६९

पुटमेतत् सुपुष्टितम्
30
[अयोध्याकाण्डः
दशरथेन रामानुशासनम्

भवार्थाः । म्लेच्छाचार्याः-म्लेच्छप्रभवः । अन्तरशब्दः प्रदेशवाची । प्राच्यादिशैलान्तवासिन इत्यनेन मूलभृतकश्रेणिसुहृद्द्विषदाटविकमितिषड्विधबलोपास्यत्वं सार्वभौमचिह्नमुक्तम् ॥ २६ ॥

 तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ।
 प्रासादस्थो [१]रथगतं ददर्शायान्तमात्मजम् ॥ २७ ॥
 गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ।
 दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥ २८ ॥

 गन्धर्वराजप्रतिमं-यथोक्तदर्शनप्रयोजकदिव्यरूपवत्त्वे ॥ २८ ॥

 [२]चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ।
 रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ २९ ॥

 चन्द्रवत्कान्तं-कमनीयमाननं यस्य स तथा । अत एव-अतीव-प्रियदर्शनं । गुणैरिति । कर्मत इति शेषः ॥ २९ ॥

 [३]धर्माभितप्ताः पर्जन्यं ह्रादयन्तमिव प्रजाः ।
 न ततर्प समायान्तं पश्यमानो नराधिपः ॥ ३० ॥

 धर्माभितप्ता इति । अवृष्टिखिन्ना इति यावत् ॥ ३० ॥

 [४]अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् |
 पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ ३१ ॥


  1. दशरथः-ङ.
  2. चन्द्राननमित्युक्तेऽपि आह्लादकत्वादिसिद्धेर्निरतिशयाह्लादकत्वं द्योतयितुं कान्तशब्दः । चन्द्रात् कान्ताननमिति विग्रहः । .........पुंसां-कठिनचित्तानामपि,किमुत स्त्रीणामिति भावः ।
    यद्वा पुंशब्देन स्त्रीपुंसाधारणमात्ममात्रमुच्यते-गो.
  3. द्वितीयान्तमिदं प्रजाविशेषणम् ।
  4. अवतारणं हस्तप्रदानादिना- गो.