पुटमेतत् सुपुष्टितम्
40
[अयोध्याकाण्डः
रामाभिषेकनिश्चयः
अद्यप्रभृतीति । प्रदोषकालमारभ्येति यावत् ॥ २३ ॥
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ २४ ॥
सुहृद्भिरपि रक्षणं किमर्थमपेक्ष्यमित्यत्र-भवन्तीत्यादि । बहुविघ्नानीति बहुव्रीहिः ॥ २४ ॥
[३]विप्रोषितश्च भरतो यावदेव पुरादितः ।
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ २५ ॥
इतः पुरादिति । अस्मात्पुरादित्यर्थः । तावदेवेति । पूर्वमेवेत्यर्थः ॥ २५ ॥
- ↑ अद्यप्रभृति-एतदहरारभ्य निशा उपवस्तव्या । 'वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः' इति भोजननिवृत्यस्य वसेरकर्मकत्वादत्र सकर्मकत्वमार्षम्-गो.
- ↑ व्रतिना-ङ.
- ↑ केकय-राजाय राज्यशुल्कं दत्त्वा कैकेयीं विवाहितवान्; तं वृत्तान्तं हृदि कृत्वाह-विप्रोषित इति ।(अयं वृत्तान्तः अयो. १०७-३-श्लोके स्पष्टः) गो.
- ↑ कामं-यद्यपि । वृत्ते-शीले ।
- ↑ किन्नु-ङ.
- ↑ मनः-ङ.
- ↑ सामान्यप्रयुक्तदोषो विशेषे न संक्रमत इत्याह-सतां त्विति । तुशब्दः पक्ष-व्यावृत्त्यर्थः। धर्मनित्यानां-धर्मैकनिरतानां कृतशोभि-कृतेन परस्परोपकारेण शोभते ;न तु भेदं प्राप्नोति । अन्ये त्वेवं व्याचक्षते-'धर्मनित्यानां चित्तं कृतशोभि–कृतेन
परकृतमित्रभेदादिना शोभितुं शीलमस्यास्तीति कृतशोभीति । अन्ये त्वाहुः-सतां चित्तं कृतेन कार्येण शोभते, न तु करिष्यमाणेन । कृतं कार्यमनुमोदते । न तु करिष्यमाणमिति भाव इति-गो.