पुटमेतत् सुपुष्टितम्
46
[अयोध्याकाण्डः
अभिषेकपूर्वाङ्गचर्याचरणम्
स्वयमिति । [३]रामविषयराजशासनत्वादेव ब्राह्मं-ब्राह्मणवहनार्हम् ॥ ४ ॥
स रामभवनं प्राप्य [४].पाण्डराभ्रघनप्रभम् ।
तिस्रः कक्ष्या स्थेनैव विवेश मुनिसत्तमः ॥ ५ ॥
अभ्रे-आकाशे विद्यमानो घनः-अभ्रघनः । एतेन पर्वतस्थ-घनव्यावृत्तिः । ततः पाण्डरशब्देन कर्मधारयः, तस्येव प्रभा यस्य तत् तथा ॥ ५ ॥
तमागतमृषिं रामस्त्वरन्निव ससंभ्रमम् ।
मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥ ६ ॥
त्वरन्निव-त्वरन्नेव । मानयिष्यन्निति । प्रत्युत्थानरूपं सम्मानं करिष्यन् ॥ ६ ॥
अभ्येत्य त्वरमाणश्च स्थाभ्याशं मनीषिणः ।
ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ ७॥