पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११३

पुटमेतत् सुपुष्टितम्
46
[बालकाण्ड:
उत्तरकाण्डकथासङ्क्षेपः

 क्षुद्भयमिति । क्षुदुपशमोपायाभावजमित्यर्थः ॥ ९३ ॥
 नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा ।

 कृतयुगे अधर्मासम्बन्धः स्वाभाविक इति तत्र नित्यं प्रजाप्रमोद: । त्रेतायामधर्मस्य पादांशतस्सम्बन्धप्रसङ्गे रामलक्ष्मणवैभवात् तदनाक्रमात् नित्यप्रमोदत्वम् ॥

 अश्वमेघशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥ ९४ ॥

 एवं रामस्य राज्यपरिपालनवैभवचरितमुपदिश्य भविष्यद्रामस्य वृत्तान्त उपदिश्यते-अश्वमेषेत्यादि । अश्वमेघशतैरिष्ट्वेति । तेषां निष्कामतयाऽनुष्ठानात् ब्रह्मलोकहेतुत्वम् । क्ताप्रत्ययात्कार्यकारणभावश्चावसितः । यद्यपि ब्रह्मैव भगवान् रामः स्वस्वलोकप्राप्तौ न किञ्चित्साघनमपेक्षते अथापि [१]मानुषोपाधिप्रयुक्तावर्ज्यसप्ताघशमनद्वारा-ब्रह्मलोकोपयोगः । यथा ब्राह्मणस्यानुपचरितब्रह्ममुक्तेः स्वनित्यब्रह्मलोके ब्रह्मविद्यानुष्ठानोपयोगः[२] ...... ॥ ९४ ॥

 गावां कोट्ययुतं दत्वा [३]ब्रह्मलोकं प्रयास्यति ।
 असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ॥ ९५ ॥


  1.  यत्तु कतककृता-अश्वमेधायनुष्ठानस्य मानुषोपाधिप्रयुक्तावर्ज्याघशमनद्वारा ब्रह्मलोकप्राप्तौ हेतुत्वमित्युक्तं-तन्न-भगवदवताराणां पुण्यपापसंबन्धस्य सर्वतन्त्रविरुद्धत्वात् । अश्वमेधाद्यनुष्ठानं तु लीलामात्रं लोकोपदेशाय-ति.  दशवर्षसहस्राणि अश्वमेधानुष्ठानकाल इत्युक्त्या सीतां विना क्रत्वनुष्ठानस्य वक्ष्यमाणत्वाच्च अभिषेकात् परं स्वल्प एव वर्षसहस्रकाले सीतावियोग इत्यवसीयते । अश्वमेधारम्भश्च रावणवधरूपपापनिबर्हणार्थतया प्रसक्त इत्यविलम्बितः । ततः पूर्वमेव सीतावियोगः, प्रथमाश्वमेधे सीताप्रतिरूपकरणात्-गो.
  2.  मातृकायामेवं चिह्नितं । अर्धस्तु यथाश्रुतोऽपि पूर्ण इव ॥
  3.  विद्वद्भ्यो विधिपूर्वकं-ङ ॥