पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११९

पुटमेतत् सुपुष्टितम्
52
[बालकाण्डः
वाल्मीकेस्तमसातीरगमनम्

तमसानदी[१]तीरं जगाम । [२]क्वचिदुक्तं " मुहूर्तमिति 'अपवर्गे तृतीया' इति तृतीयार्थे द्वितीया छान्दसी । मुहूर्तकालेन देवलोकं गत इत्यर्थ इति" इत्यादिकं योजनाशक्तिजमिथ्याप्रलापमात्रमिति विद्वदुपेक्ष्यम् । क्व तृतीयार्थः। क्वापवर्गः । नारदस्येष्टलोकगमनस्य स्मृतिसमकालसाध्यस्य मुहूर्तकालसाध्यत्वं च देवानांप्रियेण केन प्रमाणेनावसितम् ॥ ३ ॥

 स तु तीरं समासाद्य तमसाया मुनिस्तदा ।
 शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ ४ ॥

 अकर्दमं-अपङ्कं इत्यर्थः । तीर्थं-पुण्यतीर्थं "ऋषिजुष्टजलं तीर्थं" इति निघण्टुः ॥ ४ ॥

 अकर्दममिदं तीर्थं भरद्वाज निशामय ।
 रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ ५ ॥

 किमाहेत्यतः–अकर्दममित्यादि । निशामय-अवलोकय । एवं दर्शनार्थत्वात् 'शमोऽदर्शने' इति मित्वाभावाद्धस्वाभावः । किमाहापूर्वमित्यतः-रमणीयमित्यादि । रमणीयत्वे हेतुः- प्रसन्नाम्ब्विति । तत्र हेतुः-अकर्दममिति । सन्मनुष्यचित्तस्य कामादिदोषकर्दमराहित्येन नित्यप्रसन्नत्वात्तदंशेऽयं दृष्टान्तः ॥ ५ ॥

 न्यस्यतां कलशस्तात ! दीयतां [३]वल्कला मम ।
 इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ ६ ॥

 न्यस्यतां कलश इति । देवपूजार्थं अर्थ्योदकाय नीयत इति शेषः । वल्कला दीयतामिति-'लिङ्गमशिष्यम्' इति भाष्यकारवचना-


  1. तीरन्तु-ग.
  2. इदं व्याख्यानं गोविन्दराजतीर्थयोरपि सम्मतम् ।
  3. वस्कलं- ङ. च.