भरद्वाजः, श्रुतवान्-बहुश्श्रुतः । [१]पृष्ठतः-स्कन्धपृष्ठभागेन पूर्णं कलशमादाय तं मुनिं आचार्यं अनुजगामेति योजना ॥ २१ ॥
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।
उपविष्टः कथाश्चान्याश्रकार ध्यानमास्थितः ॥ २२ ॥
स कथाश्चान्याः-धर्म्याश्चकार । अनन्तरं माध्याह्निककृत्यत्वेन नित्यप्राप्तमम्बया चतुर्मुखध्यानमास्थितो बभूव । [२]मध्याह्ने चतुर्मुखरुद्रप्राधान्येनाम्बया ध्यानं गायत्रीहृदयादितः श्रोत्रियमन्त्रप्रसिद्धं चतुर्मुखरुद्राभेदं मामकास्तु विदुः ॥ २२ ॥
आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः ।
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ २३ ॥
आजगामेति । स्वयं प्रभुः-अनन्यमुख [३]निरीक्षकतया भूरादिसर्वलोक लौकिकसर्गादिपञ्चकृत्यापेक्षितसमग्रभूमविद्यैश्वर्यानन्दशक्तिमान् । अत एव लोककर्ता-लोकानां भूरादीनां तल्लोकस्थत्रिस्रोतसां च सर्गादिपञ्चकृत्य-साक्षात्कर्ता, साक्षादखण्डकाले प्रतिष्ठत्वात् । अत एव महातेजा:-यत्तेजः समक्षं सर्वतेजांसि चन्द्रग्रहनक्षत्रतारादीन्यस्तं यान्ति । तथा हि श्रुतिः-"अमी य ऋक्षा निहिता स उच्चा । नक्तं ददृश्रे कुह चिद्दिवेयुः ॥" इति । एवं महातेजाश्चतुर्मुखो ब्रह्मेति अम्बाचतुर्व्यूह-विद्यावलम्बनेन तदर्थरामादिचतुर्व्यूह ब्रह्मावतारमूर्तिप्राधान्येन च सन्तत-