पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४२

पुटमेतत् सुपुष्टितम्
३ सर्गः]
75
योगबलात् वाल्मीकिसाक्षात्कृतार्थानुवादः

 मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।
 राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ॥ ३२ ॥

 मणिप्रदानमिति । रामं प्रतीति शेषः ॥ ३२ ॥

 ग्रहणं वायुसनोच लङ्कादाहाभितर्जनम् ।
 प्रतिप्लवनमेवाथ मधुनिर्यातनं तथा ॥ ३३ ॥

 लङ्कादाहश्च अभितर्जनञ्च तथा । तत्र राक्षसानामिति शेषः । प्रतिप्लवनं पुनः सागरतरणम् । मधूनां क्षौद्राणाम् ॥ ३३ ॥

 राघवाश्वासनं चैव मणिनिर्यातनं तथा ।
 सङ्गमं च समुद्रेण नलसेतोच बन्धनम् ॥ ३४ ॥

 निर्यातनं-दानम् । नलबद्धोः यस्सेतुः स नलसेतुः ॥ ३४ ॥

 प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।
 विभीषणेन संसर्गं वधोपायनिवेदनम् ॥ ३५ ॥

 प्रतारं-भावे घञ् । विभीषणसंसर्गः सेतुबन्धनात्पूर्वम् ॥ ३५ ॥

 कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।
 रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥ ३६॥
 विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।

 [१]अरेः पुरे सीतावाप्तिं विभीषणाभिषेकं चेत्यन्वयः ॥ ३६ ॥

 अयोध्यायाश्च गमनं भरद्वाजसमागमम् ।
 प्रेषणं वायुपुत्रस्य भरतेन समागमम् ॥ ३७ ।।


  1. अरे: पुर इयेत्तत् विभीषणाभिषेकं च इत्यत्राप्यन्वेति ।