पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२०५

पुटमेतत् सुपुष्टितम्
139
[बालकाण्ड:
अश्वमेधदीक्षा

 [१]तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ।
 आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ॥ ११ ॥
 तथा जानपदस्यापि जनस्य बहुशोभनम् ।
 दातव्यमन्त्रं विधिवत् सत्कृत्य न तु लीलया ॥ १२ ॥

 सत्कृत्य देयम्-परलोकप्रयोजनबुद्ध्या देयम् । न तु लीलयेति । केवलमुत्सवमात्रबुद्ध्येत्यर्थः ॥ १२ ॥

 सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसंस्कृताः ।
 न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ॥ १३ ॥
 यज्ञकर्माणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ।
 तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ॥ १४ ॥
 ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ।

 विशेषेणापि पूजा कार्येति । विशिष्टताम्बूलचन्दनसुवस्त्रादिदानेनेति शेषः । यथाक्रममिति । ज्येष्ठानुक्रमेणेत्यर्थः । सर्वे ते चेत्यादि । सर्वे भृतकाः । वसु-धनम् । वस्वादिभिर्यथा सम्भृतास्स्युस्तथा कार्यम् ॥

 यथा सर्वं सुविहितं न किञ्चित्परिहीयते ॥ १५ ॥
 तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।

 सर्वमिति । उक्तोपकरणजातमिति यावत् ॥ १५ ॥

 ततस्सर्वे समागम्य वसिष्ठमिदमब्रुवन् ॥ १६ ॥
 यथोक्तं तत्सुविहितं न किञ्चित्परिहीयते ।
 यथोक्तं तत्करिष्यामो न किञ्चित्परिहास्यते ॥ १७ ॥


  1. एतदनन्तरं-आगतानां सुदूराच पार्थिवानां पृथक्पृथक् । वाजिवारणशालाश्च तथा शय्यागृहाणि च । भटानां महदावासा वैदेशिकनिवासिनाम् ॥ इदमधिकम्-ङ.