पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२०७

पुटमेतत् सुपुष्टितम्
140
[बालकाण्डः
अश्वमेधदीक्षा

 तथा केकयराजानं वृद्धं परमधार्मिकम् ।
 श्वशुरं राजसिह्मस्य सपुत्रं त्वमिहानय ॥ २३ ॥

 केकयराजानमिति । समासान्तस्यानित्यात्वाट्टजभावः ॥ २३ ॥

 अङ्गेश्वरं महाभागं रोमपादं [१]समीपगम् ।
 [२]वयस्यं राजसिह्मस्य समानय यशस्विनम् ॥ २४ ॥

 समीपगतमिति । आसन्नदेशवर्तिनमिति यावत् ॥ २४ ॥

 प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ।
 दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह ॥ २५ ॥

 प्राचीनान् । 'विभाषाञ्चेः' इति स्वार्थे खः । प्राग्देशवर्तिन इति यावत् । सिन्धौ सौवीरे सौराष्ट्रे च भवाः, ढ आर्षः । सिन्धुसौवीरसौराष्ट्रेयान् ॥ २५ ॥

 सन्ति स्विग्धाश्च ये चान्ये राजानः पृथिवीतले ।
 [३]तानानय यथाक्षिप्रं सानुगान् सहबान्धवान् ॥ २६ ॥
 वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ।
 व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ २७ ॥
 स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ।
 सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ २८ ॥

 स्वयन्तु त्वरितो भूत्वा समानेतुमिति । वसिष्ठेन विशिष्योक्तानिति शेषः ॥ २८ ॥


  1. सुसत्कृतम्-ङ.
  2. एतदनन्तरं तथा कोसलराजानं मानुमन्तं सुसत्कृतम् । मगधाधिपति शूरं सर्वशास्त्रविशारदम् ॥ प्राप्तिशं परमोदारं सत्कृतं पुरुषर्षभम् । राज्ञश्शासनमादाय चोदयस्व नृपर्षभान् ॥
  3. एतदनन्तरं एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया । इदमदिकं-ङ.