तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।
पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् ॥ २१ ॥
हिरण्मयीं-[१]हिरण्यविकाराम् । दाण्डिनायनसूत्रे यादिलोपनिपातः ॥ २१ ॥
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।
मुदा परमया युक्तञ्चकाराभिप्रदक्षिणम् ॥ २२ ॥
अभितः प्रदक्षिणं-अभिप्रदक्षिणं । अद्भुतप्रख्यं-अद्भुताकारम् ॥ २२ ॥
ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।
बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ २३ ॥
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।
संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ॥ २४ ॥
भूतं कर्तृ । संवर्तयित्वा-समाप्य । तत्कर्मेति । श्रीहिरण्यगर्भतेजोंऽशावतारण कर्मेति यावत् । तत्रेति । अग्निकुण्ड इति यावत् ॥ २४ ॥
हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ ।
शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥ २५ ॥
हर्षेति । हर्षजाः रश्मयः-स्मितज्योत्स्नारूपाः [२]तैरुद्भूतः उद्योतः-प्रकाशो यस्य तत्तथा । अन्तःपुरं तद्वर्तिस्त्रीजातमिति यावत् । शरदि भवश्शारदः । चन्द्रस्यांशुभिः नभ इवेति योजना ॥ २५ ॥