पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२४४

पुटमेतत् सुपुष्टितम्
१७ संगः]
177
जुगोप वाली तान् सर्वान् विष्णुसाहाय्यकारिणः

 दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।
 नभस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ २७ ॥

 आप्लवेयुरिति । सन्तरेयुरिति यावत् ॥ २७ ॥

 गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ।
 नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान् ॥ २८ ॥

 प्रव्रजतः । स्वच्छन्दगतीनित्यर्थः ॥ २८ ॥

 ईदृशानां सहस्राणि हरीणां कामरूपिणाम् ।
 शतं शतसहस्राणि यूथपानां महात्मनाम् ॥ २९ ॥

 शतं शतसहस्राणीति । अनेकानीति यावत् ॥ २९ ॥

 ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ।
 बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् ॥ ३० ॥

 त इत्यादि । ते प्रागुक्ताः सुग्रीवादिसुषेणान्ताः हरीणां प्रधानेषु। यूथेषु-महायूथेषु हरियूथपाः बभूवुः । ते यूथपश्रेष्ठाश्च वीरान् हरीनजनयन् ॥ ३० ॥

 अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः ।
 अन्ये नानाविधान् शैलान् काननानि च भेजिरे ॥ ३१ ॥
 [१]सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥ ३२ ॥
 भ्रातरापतस्थुस्ते सर्व एव हरीश्वराः ।
 नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥ ३३ ॥


  1. अत्र,175 पुटे विद्यमानार्धेन सह इदमर्थं गणनीयम् ।