पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२५४

पुटमेतत् सुपुष्टितम्
१८ सर्गः]
187
ततः कदाचिदागच्छत् विश्वामित्रो महामुनिः

त्स्वामी भगवान् ब्रह्मा हिरण्यगर्भः, सर्वेषामेव दप्तितेजसां गृहनक्षत्रचन्द्राग्निभास्करादीनां पुत्राणां लाभतो हृष्टो भवति तथेत्यर्थः ॥ ३४ ॥

 ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥ ३५ ॥
 पितृशुश्रूषणरताः धनुर्वेदे च निष्ठिताः ।

 अध्ययनं-नियमोपेतो विद्याभ्यासः । वेदसम्बन्धि वैदिकम्, तादृशेऽध्ययने रताः-नियताः इत्यर्थः ॥ ३५ ॥

 अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥ ३६॥
 चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ।

 दाराक्रिया-विवाहः ॥ ३६॥

 तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥ ३७ ॥
 अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः ।

 मन्त्रिमध्य इति । कदाचित्सभायामवस्थितस्येति शेषः ॥ ३७ ॥

 स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥ ३८ ॥
 शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनन्दनम् ।

 कौशिकं-कुशिकगोत्रजम् ॥ ३८ ॥

 तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥ ३९ ॥
 सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ।

 वेश्मेति । अन्तर्वेश्मेति यावत् । सम्भ्रान्तमनस इति । क्षुभितचित्ता इति यावत् । तेनेति । तदीयेनेति शेषः ॥ ३९ ॥