व्यषीदत। 'प्राक्सितादङ्व्यवायेऽपि' इति षत्वम्। व्यत्ययादात्मनेपदम् । भयान्वितः-रक्षोनिमित्तपुत्रविपत्तिभययुक्तः ॥ २० ॥
इति हृदयमनोविदारणं
मुनिवचनं तदतीव शुश्रुवान् ।
नरपतिरभवन्महांस्तदा
व्यथितमनाः प्रचचाल चासनात् ॥ २१ ॥
इत्यर्षे श्रीमद्रामायणे बालकाण्डे एकोनविंशः सर्गः
हृदयं-हृदयपुण्डरीकं, तद्वर्त्यात्मा तथेत्युच्यते । मनः-तदन्तःकरणम् । अतीव-अत्यर्थम् हृदयादि विदारणमिति योजना । महान् । सार्वभौम इति यावत् । महात्मा-महाबुद्धिः । व्यथितमनाः-[१]मूर्च्छितचित्तः। आसनाच्चचालेति । अवस्थातुमशक्तो निस्संज्ञः पपातेति यावत् । आकार (२९ १/२) मानः ॥ २१ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनविंशः सर्गः
अथ विंशः सर्गः
[दशरथसन्तापः]
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमिव निस्संज्ञः संज्ञावानिदमब्रवीत् ॥ १ ॥
एवमर्थितरामदानकस्य नृपतेः, रामे प्राकृतमानवमत्या प्राप्तो लौकिकव्यवहार उपन्यस्यते-तच्छ्रुत्वेत्यादि । अनेन वृत्तानुवादः । इव शब्द एवार्थे । मुहूर्तं निस्संज्ञ एव-मूर्च्छित एव स्थित्वेत्यर्थः॥ १ ॥
- ↑ आमूच्छित-क. ख.