षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ! ॥ १० ॥
दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ।
इतश्चेतश्च [१]रामनयनमयुक्तमित्याह-षष्टिरित्यादि । जातस्य ममेति । अतीतानि तदनन्तरमिति शेषः । दुःखं व्रतोपवासयज्ञदीक्षा-लक्षणम् ॥ १० ॥
चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥ ११ ॥
ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ।
परमिका । परमशब्दात्स्वार्थे कः । 'प्रत्ययस्थात्' इत्यादिना इत्वम् ॥ ११ ॥
किंवीर्या राक्षसास्ते च कस्य पुत्राश्च ते च के ? ॥ १२ ॥
कथंप्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव ! ।
अथ सर्वथा रामनयनमन्याय्यमिति प्रतिपादयितुं योद्धव्यरक्षस्वरूपादिप्रश्नः-किंवीर्या इत्यादि । के च त इति । किंनामान इति यावत् । कथंप्रमाणाः-[२]किंवाक्यप्रमाणकाः ॥ १२ ॥
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥ १३ ॥
मामकैर्वा बलैर्ब्रह्मन् ! मया वा कूटयोधिनाम् ।
तेषां प्रतिकर्तव्यं-प्रतिक्रिया संहारश्च कथं स्यात् ॥ १३ ॥
सर्वं मे शंस भगवन् ! कथं तेषां मया रणे ॥ १४ ॥
स्थातव्यं दुष्टभावानां, वीर्योत्सिक्ता राक्षसाः ।