एवं आहत्य ग्रन्थनवकं प्राधान्येनोयोपजितम् । एतदुपर्यपि संशयादिवारणाय एतत्कोशागारस्थाः बहवः कोशाः आवश्यक भागे परिशीलिताः । मूलपाठविषये-व्याख्यानुरोधी पाठ एव मूले निवेशितः । पाठान्तरेषु च समीचीनान्येव निर्दिष्टानि, न सर्वाणि । शिरोलेख (Heading) विषये नूतनः क्रमः अनुसृतः । प्रतिसर्गं अनुगतो विषयः वामभागे समसंख्याकपुटे निर्दिष्टः । सर्गावान्तरविषयस्तु दक्षिणभागे विषमसंख्याकपुटे निर्दिष्टः । तत्रापियावत्संभवं तत्तत्पुटानुगुणः कथाभागः यथा अनुस्यूतः स्यात् तथा श्लोकरूपेणैव शिरोलेखने निर्दिष्टः । एवं सति च तादृशश्लोकानामेकत्र मेलने रामायणकथा संग्रहेण ज्ञायेत । विषयसूची-दर्शनेनायमर्थः स्पष्टः स्यात् ।
चतुर्थसर्गपर्यन्तभागस्योपोद्धातरूपत्वेन तत्पर्यन्तं उपरि-निर्दिष्टक्रमेण श्लोकैर्न शिरोलेखो निवेशितः, किन्तु वाक्यैरेव ।
टिप्पणीलेखनसमये कारणान्तरवशात् येषां मुख्यानां श्लोकानां टिप्पण्यो न संयोजिताः, तत्र वक्तव्यं विषयानुक्रमणिकाया अनन्तरं संयोजितम् ।
सन्ति विचारणीया बहवो विषयाः, परन्तु रामायणकोश-समुपाहरणस्मरणमस्मल्लेखनीप्रसरमिदानीं निरुणद्धीति विज्ञापयामः ।
अन्तत इदमवश्यनिवेदनीयम् -
अस्मत्सहोद्योगिनः एतत्संशोधनालयपण्डिताः सर्वथोत्तमर्णा एव मम, येषां हार्देन सहकारेणैव एतद्ग्रन्थसंपादनं यथाशक्ति सुसुखं निर्वर्तितमिति ।