कोऽसौ देव एतयोर्नामनिर्मातेत्यतः–पुरेत्यादि । मलेन-प्रकृत्या मर्त्यधर्मप्रसिद्धाकारेण तथा तद्धर्मप्रसिद्धक्षुधा च । ब्रह्महत्येत्यादि । 'हनस्त च' इति क्यप्सन्नियोगे हन्तेस्तकारादेशः । वृत्रस्य ब्रह्म-सन्तानत्वात् तद्धनने ब्रह्महत्या ॥ १८ ॥
तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः ।
कलशैः स्नापयामासुः मलं चास्य प्रमोचयन् ॥ १९ ॥
तमिन्द्रं देवाः-वस्वादयः कलशैः-गङ्गातीर्थकलशैः स्नापयन्-'ष्णा शौचे' अनुपसर्गे वा मित्, अडभावश्छान्दसः, अस्नापयन् । अथ ऋषयः-वसिष्ठाद्याश्च कलशैः स्नापयामासुः । तद्बलेनास्य मलं करूशपर्यायं क्षुधं च प्रमोचयन् । अडभावश्छान्दसः । तथा सर्वत्राऽग्रे द्रष्टव्यम् ॥ १९ ॥
इह भूम्यां मलं दत्त्वा दत्त्वा कारूशमेव च ।
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ॥ २० ॥
तत इह भूम्यां महेन्द्रस्य शरीरजं मलं कारूशमेव च दत्त्वा ततो हर्षं प्रपेदिरे ॥ २० ॥
निर्मलो निष्करूशश्च शुचिरिन्द्रो यदाऽभवत् ।
ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥ २१ ॥
यदा तदेति योजना ॥ २१ ॥
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ।
मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ॥ २२ ॥
कीदृशीं ख्यातिमित्यतः-मलदाश्चेति । दारादिवच्छब्दस्वाभाव्यमूलं बहुत्वम् । यस्मात् ममाङ्गमलधारिणौ तस्मादिति योजना ॥ २२ ॥