पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२९७

पुटमेतत् सुपुष्टितम्
230
[बालकाण्डः
ताटकावधसमर्थनम्

 नृशंसः-क्रूरकर्मा । प्रजारक्षकारणादिति । प्रजारक्षणसिद्धिहेतोरित्यर्थः । रक्षता सदेति । रक्षाधर्मसिद्धिशेषत्वेनेति यावत् ॥ १७ ॥

 राज्यभारनियुक्तानां एष धर्मः सनातनः ॥ १८ ॥
 अधर्म्यां जहि काकुत्स्थ ! धर्मो ह्यस्या न विद्यते ।

 इतश्चास्या वधो न्याय्य इत्याह-अधर्म्यामिति । धर्मादनपेता धर्म्या, सा न भवतीत्यधर्म्या । अयमेवार्थः स्थिरीक्रियते-धर्म इत्यादि ॥ १८ ॥

 श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ! ॥ १९ ॥
 पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ।

 प्रजारक्षाप्राप्तोऽधर्म्यस्त्रीवधो धर्म्य एवेतीममर्थं सम्मतिभिः स्थिरीकरोति–श्रूयत इत्यादि । पृथिवीमित्यादि । देवताविग्रहवतीमिति यावत् ॥ २० ॥

 विष्णुना च पुरा राम ! भृगुपत्नी दृढव्रता ॥ २० ॥
 [१]अनिद्रं लोकमिच्छन्ती काव्यमाता निषूदिता ।

 अनिंद्र-निद्रासुखरहितम् । काव्यः-शुक्रः ॥ २१ ॥

 एतैश्चान्यैश्च बहुभी राजपुत्र ! महात्मभिः ॥ २१ ॥
 अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ।
 तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ! ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चविंशः सर्गः


 एतैरिति । छान्दसं बहुत्वम् । एताभ्यां शकविष्णुभ्यामित्यर्थः । रुद्र (२२) मानः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चविंशः सर्गः



  1. अनिन्द्रं-उ.