[१]मा भूत् स कालो दुर्मेधः ! पितरं सत्यवादिनम् ।
नावमन्यस्व, धर्मेण स्वयं वरमुपास्महे ॥ २१ ॥
हे दुर्मेधः ! स कालः-मृत्युस्ते मा भूत् । धर्मेण स्वयमिति । पित्रा स्वयं-स्वेच्छया क्रियमाणेन कन्यादानरूपेण यो वर आयाति तं वरमुपास्महे । वर्तमानसामीप्ये लट् ॥ २१ ॥
पिता हि प्रभुरस्माकं दैवतं परमं हि नः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ २२ ॥
अयमेवार्थः स्पष्टं व्याख्यायते-पिता हीत्यादि ॥ २२ ॥
तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।
[२]प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ २३ ॥
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रापतन् भुवि संभ्रान्ताः सलज्जाः साधुलोचनाः ॥ २४ ॥
सलज्जा इति । अन्याय्यपतिप्रसङ्गतस्सलज्जाः ॥ २४ ॥
स च ता दयिता दीनाः कन्याः परमशोभनाः ।
दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् ॥ २५ ॥
संभ्रान्तः- पर्याकुलचित्तः ॥ २५ ॥