पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४२

पुटमेतत् सुपुष्टितम्
३३ सर्गः]
275
शशंस कुशनाभस्तु तासां शीलं क्षमामपि

 पितृमत्यः स्म, भद्रं ते, स्वच्छन्दे न वयं स्थिताः ।
 पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ ३ ॥

 किञ्च यतः पितृमत्यः स्म वयं, ततो न स्वच्छन्दे-स्वातन्त्र्ये किञ्चित्पतिस्वीकारविषयके स्थिताः-वर्तामहे । यदेवमतः -नः पितरमेव वृणीष्व त्वम् । स यदि नः-अस्मान् तुभ्यं दास्यते तदा तव भविष्यामः । तव भद्रमस्तु ॥ ३ ॥

 तेन पापानुबन्धेन वचनं नप्रतीच्छता ।
 एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ॥ ४ ॥

 इत्येवंब्रुवन्तीनां नः वचनं नप्रतीच्छता-अनङ्गीकुर्वता पापानुबन्धेन-अधर्मानुबद्धचित्तेन, तत एव धर्मंं ब्रुवन्त्यः सर्वाः वयं वायुना भृशं निहताः ॥ ४ ॥

 तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः ।
 प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ ५ ॥
 [१]क्षान्तं  क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् ।
 ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ ६ ॥
 अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।
 दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः ॥ ७ ॥

 हे पुत्र्यः ! क्षमावतां-क्षमावत्वे प्रसिद्धभूम्यादिभिः कर्तव्यं- कर्तुमर्हं, 'कृत्यानां कर्तरि वा' इति षष्ठी, यत् क्षान्तं-भावे निष्ठा,क्षमा, तत् भवतीभिः कृतं इदं सुमहत् कर्म; देवे प्रार्थयमाने-कामवेगस्य,


  1. क्षमैव दुष्करा, ततस्त्रिदशेषु दुष्करा, ततोपि  सर्वासामविशेषेण क्षमा दुष्करैवेत्यर्थः- गो.