पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४३

पुटमेतत् सुपुष्टितम्
276
[बालकाण्डः
कुशनाभकन्यापरिणयः

तथा गात्रं भञ्जयति तदुत्थक्रोधवेगस्य च सहनमपि कृतचित्तत्वरूपं दुष्करमित्यर्थः । पूरुषस्य वेति । अविशेषेणेति शेषः । यच्च भवतीनां क्षान्तमभूत् तत्, त्रिदशेषु-त्रिदशविषयेषु विशेषतो दुष्करं-कामस्य रूप-गतिभोगविद्यैश्वर्यपतिविषयत्वात्तद्विषयक कामवेगोपशमनं दुष्करमित्यर्थः ॥

 यादृशी वः क्षमा पुत्र्यः ! सर्वासामविशेषतः ।

 अथ अलङ्कारो हीत्यादिना प्रागुक्त एवार्थ आदरात्पुनः प्रतिपाद्यते-यादृशीत्यादि । अविशेषत इति । स्त्रीपुरुषाविशेषेणेति यावत् ॥ ८ ॥

 क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः ! ॥ ८ ॥
 क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् ।

 क्षमाप्रशंसा-क्षमा दानमित्यादि ॥ ८ ॥

 विसृज्य कन्याः काकुत्स्थ ! राजा त्रिदशविक्रमः ॥ ९ ॥
 मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।
 देशकालौ प्रदानस्य सदृशे प्रतिपादनम् ॥ १० ॥

 प्रदानं । कन्याप्रदानमिति यावत् । अथ मन्त्रणीयांशः प्रतिपाद्यते-देश इत्यादि । उचिते देशे काले च यथावत्क्रियमाणकन्या-प्रदानस्य सदृशे-स्वकुलादिसदृशे पात्रे यत्प्रदानं सिद्ध्यति, तदर्थंं मन्त्रयामासेत्यर्थः ॥ १० ॥

 एतस्मिन्नेव काले तु चूली नाम महामुनिः ।
 ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥ ११ ॥