रितमित्युच्यते-कौशिकीत्यादि । महानदी-महानदीरूपिणी च प्रवृत्ता । क्वैवं प्रवृत्तेत्यतो-हिमवन्तमुपाश्रितेति । किं प्रयोजनेनैवं प्रवृत्तिरित्यतः-लोकस्येत्यादि ।[१]हितकाम्यार्थं-इष्टकाम्यार्थसिद्ध्यर्थमित्यर्थः ॥ ९ ॥
ततोऽहं हिमवत्पार्श्वे वसामि निरतः सुखम् ।
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ! ॥ १० ॥
तत इति । यतो भगिन्यां स्नेहसंयुक्तः, तत एव हिमवत्पार्श्वे वर्तमानायां कौशिक्यां निरतः-नित्यप्रतिष्ठितः सुखं वसामि ॥ १० ॥
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।
पतिव्रता महाभागा कौशिकी सरितां वरा ॥ ११ ॥
इतश्च तस्यां वासः-सा त्वित्यादि ॥ ११ ॥
अहं हि नियमाद्राम ! हित्वा तां समुपागतः ।
सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा ॥ १२ ॥
ननु दिव्यवैभव कौशिकीनित्यप्रतिष्ठस्य कुतास्सिद्धाश्रमागम इत्यतः-अहं हीत्यादि । नियमादिति । गयापिण्डदानवत् सिद्धाश्रमैकसिद्धियागविशेषसिद्धिहेतोरित्यर्थः । आगमनकार्यं च त्वदनुग्रहात् सिद्धमित्याह-सिद्धाश्रममित्यादि ॥
एषा राम ! ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता ।
देशस्य च महाबाहो ! यन्मां त्वं परिपृच्छसि ॥ १३ ॥
- ↑ हितकामार्थे-घ.